अतुलित महाशक्तियों का भंडार माता मातंगी कवच
## कवच-पाठ
ॐ शिरो मातंगिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलं त्रिपुरा वदनं मम ॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥
ऊरुद्वये तथा चण्डी जंघयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वांगेषु कुलेश्वरी ॥
अंग प्रत्यंगकं चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातंगी नाम संस्थिता ॥
ललाटे रक्षेन्नित्यं महापिशाचिनीति च ।
नेत्राभ्यां सुमुखी रक्षेद् देवी रक्षतु नासिकाम् ॥
महापिशाचिनी पायान्मुखे रक्षतु सर्व्वदा ।
लज्जा रक्षतु मां दन्ते चौष्ठौ सम्मार्जनीकरी ॥
चिबुके कण्ठदेशे तु चकारत्रितयं पुनः ॥
सविसर्ग महादेवी हृदयं पातु सर्वदा ।
नाभि रक्षतु मां लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिंगे कात्यायनी तथा ॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयं चण्डभूषणा ॥
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥
नैरृत्यां सुदया रक्षेद् वायव्यां पातु लक्ष्मणा ।
ऐशान्यां रक्षयेद् देवी मातंगी शुभकारिणी ॥
रक्षेत् सुरेशा चाग्नेये बगला पातु चोत्तरे ।
ऊर्ध्वं पातु महादेवी देवानां हितकारिणी ॥
पाताले पातु मां नित्यं वशिनी विश्वरूपिणी ।
प्रणवं च ततो माया कामबीजं च कूर्चकम् ॥
मातंगिनी ङेयुतास्त्रं वह्निजायावधिर्मनुः ।
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥
जप मन्त्र— ॐ ह्रीं क्लीं हूं मातंग्यै फट् स्वाहा।
No review given yet!
Fast Delivery all across the country
Safe Payment
7 Days Return Policy
100% Authentic Products